Go To Mantra

इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पण॑न्त॒ रत्न॑म् । धियं॑ च य॒ज्ञं च॒ साध॑न्त॒स्ते नो॑ धान्तु वस॒व्य१॒॑मसा॑मि ॥

English Transliteration

iyam eṣām amṛtānāṁ gīḥ sarvatātā ye kṛpaṇanta ratnam | dhiyaṁ ca yajñaṁ ca sādhantas te no dhāntu vasavyam asāmi ||

Pad Path

इ॒यम् । ए॒षा॒म् । अ॒मृता॑नाम् । गीः । स॒र्वऽता॑ता । ये । कृ॒पण॑न्त । रत्न॑म् । धिय॑म् । च॒ । य॒ज्ञम् । च॒ । साध॑न्तः । ते । नः॒ । धा॒न्तु॒ । व॒स॒व्य॑म् । असा॑मि ॥ १०.७४.३

Rigveda » Mandal:10» Sukta:74» Mantra:3 | Ashtak:8» Adhyay:3» Varga:5» Mantra:3 | Mandal:10» Anuvak:6» Mantra:3


Reads times

BRAHMAMUNI

Word-Meaning: - (एषाम्-अमृतानाम्) इन जीवन्मुक्त विद्वानों की (गीः सर्वताता) उपदेश की हुई वेदवाणी सर्वसुखद कर्मों के विस्तार करनेवाली है या हो (ये रत्नं कृपणन्त) जो विद्वान् रमणीय मोक्ष प्राप्त करने को हमें समर्थ करते हैं (धियं च यज्ञं च साधन्तः) वे प्रज्ञान को और अध्यात्मयज्ञ को साधते हुए (असामि वसव्यम् नः-धान्तु) पूर्ण धनों में श्रेष्ठ ज्ञान धन को हमारे लिए धारण करावें ॥३॥
Connotation: - जीवन्मुक्त विद्वान् अपनी वाणी से सब सुखों को सिद्ध करने का उपदेश करें और मोक्षप्राप्ति के लिए समर्थ बनावें, जो सब धनों में श्रेष्ठ धन है ॥३॥
Reads times

BRAHMAMUNI

Word-Meaning: - (एषाम्-अमृतानां गीःसर्वताता) एतेषां जीवन्मुक्तानां विदुषामुपदिष्टा वेदवाक् सर्वसुखदकर्मविस्तारिका “सर्वताता सर्वासु कर्मततिषु” [नि० ११।२४] अस्ति भवतु (ये रत्नं कृपणन्त) ये विद्वांसो रमणीयं मोक्षं प्राप्तुमस्मान् समर्थयन्ति “कृपते समर्थयतु” [ऋ० १।११३।१० दयानन्दः] ‘कृपू सामर्थ्ये’ [भ्वादि०] ततः शप् श्ना च “विकरणद्वयं छान्दसम्” (धियं च यज्ञं च साधन्तः) ते प्रज्ञानं चाध्यात्मयज्ञं साधयन्तः ‘अन्तर्गतो णिजर्थः’ (असामि-वसव्यं नः धान्तु) पूर्णवसुषु भवं श्रेष्ठं ज्ञानधनमस्मासु धारयन्तु “धा धातोः श्लुविकरण औत्सर्गिको बहुलग्रहणान्न भवति” “ बहुलं छन्दसि” [अष्टा० २।४।७६] ॥३॥